नमस्ते नरसिंहाय प्रह्लादाह्लाद-दायिने
हिरण्यकशिपोर्वक्षः- शिला-टङ्क-नखालये
इतो नृसिंहः परतो नृसिंहो यतो यतो यामि ततो नृसिंहः
बहिर्नृसिंहो हृदये नृसिंहो नृसिंहमादिं शरणं प्रपद्ये
तव करकमलवरे नखमद्भुत-शृङ्गं दलितहिरण्यकशिपुतनुभृङ्गम्
केशव धृतनरहरिरूप जय जगदीश हरे।

